विनियोगः- ॐ अस्य श्रीगर्भचण्डीमाला मन्त्रस्य श्रीब्रह्मा विष्णु महेश्वरादि ऋषयः । गायत्र्युष्णिगनुष्टुप् छंदांसि । श्रीशक्तिस्वरुपिणी महाचण्डी देवता । ऐं बीजं । ह्रीं कीलकं । क्लीं शक्तीः । मम चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगः । ऋष्यादिन्यासः- ॐ अस्य श्रीगर्भचण्डीमाला मन्त्रस्य श्रीब्रह्मा विष्णु महेश्वरादि ऋषिभ्यो नमः शिरसि । गायत्र्युष्णिगनुष्टुप् छंदोभ्यो नमः मुखे । श्रीशक्तिस्वरुपिणी महाचण्डी देवतायै नमः हृदि । ऐं बीजाय नमः गुह्ये । ह्रीं कीलकाय नमः नाभौ । क्लीं शक्तये नमः पादयो । मम चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।
| षडङ्ग-न्यास |
कर-न्यास |
अंग-न्यास |
| ॐ ह्रां |
अंगुष्ठाभ्यां नमः |
हृदयाय नमः |
| ॐ ह्रीं |
तर्जनीभ्यां नमः |
शिरसे स्वाहा |
| ॐ ह्रूं |
मध्यमाभ्यां नमः |
शिखायै वषट् |
| ॐ ह्रैं |
अनामिकाभ्यां नमः |
कवचाय हुं |
| ॐ ह्रौं |
कनिष्ठिकाभ्यां नमः |
नेत्र-त्रयाय वौषट् |
| ॐ ह्रः |
करतल-कर-पृष्ठाभ्यां नमः |
अस्त्राय फट् |
।।ध्यानम्।। शुद्ध स्फटिक संकाशां रवि विम्बाननां शिवाम् । अनेक शक्तिसंयुक्तां सिंहपृष्ठे निषेदुषीम् ।। अंकुशं चाक्षसूत्रं च पाशपुस्तक धारिणीम् । मुक्ताहार समायुक्तां चण्डीं ध्याये चतुर्भुजाम् ।। सितेन दर्पणाब्जेन वस्त्रालंकार भूषितम् । जटाकलाप संयुक्तां सुस्तनीं चन्द्रशेखराम् ।। कटकैः स्वर्ण रत्नाढ्यैर्महावलय शोभिताम् । कम्बुकण्ठीं सु ताम्रोष्ठीं सर्पनूपुरधारिणीम् ।। केयुर मेखलाद्यैश्च द्योतयंतीं जगत्-त्रयम् । एवं ध्याये महाचण्डीं सर्वकामार्थ सिद्धिदाम् ।। चतुष्टय-मुद्रा का प्रदर्शन करना चाहियेः- १॰ पाश, २॰ अंकुश, ३॰ अक्षसूत्र तथा ४॰ पुस्तक । ।। अथ पाठः ।। ॐ ऐं ह्रीं क्लीं नमः ब्रह्मोवाच मः न क्लीं ह्रीं ऐं ॐ ।। १ ।। ॐ ऐं ह्रीं क्लीं नमः यच्च किञ्चित् क्वचिद् अस्तु सदसद् वाखिलात्मिके । तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा । मः न क्लीं ह्रीं ऐं ॐ ।। २ ।। ॐ श्रीं नमः सम्मानिता ननादौच्चैः साट्टहासं मुहुर्मुहुः । तस्या नादेन घोरेण कृत्स्नमापूरितं नमः । मः न श्रीं ॐ ।। ३ ।। ॐ श्रीं नमः अर्द्धनिष्क्रान्तः एवासौ युध्यमानो महाऽसुरः । तया महाऽसिना देव्या शिरश्छित्वा निपातितः । मः न श्रीं ॐ ।। ४ ।। ॐ श्रीं नमः दुर्गे स्मृता हरसि भीतिमशेष जन्तोः स्वस्थै स्मृता मतिवमतीव शुभां ददासि । दारिद्रय दुःख भय हारिणि का त्वदन्या सर्वोपकार करणाय सदाऽऽर्द्रचित्ता । मः न श्रीं ॐ ।। ५ ।। ॐ क्लीं नमः इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः । मः न क्लीं ॐ ।। ६ ।। ॐ क्लीं नमः इत्युक्तः सोऽभ्यधावत् तामसुरो धूम्रलोचनः । हुंकारेणैव तं भस्म सा चकाराम्बिका ततः । मः न क्लीं ॐ ।। ७ ।। ॐ क्लीं नमः भृकुटी कुटिलात् तस्याः ललाटफलकाद् द्रुतम् । काली कराल वदना विनिष्क्रान्ताऽसि पाशिनी । मः न क्लीं ॐ ।। ८ ।। ॐ क्लीं नमः ब्रह्रेश गुहविष्णुनां तथेन्द्रस्य च शक्तयः । शरीरेभ्यो विनिष्क्रमय तद्रुपैश्चण्डिकां ययुः मः न क्लीं ॐ ।। ९ ।। ॐ क्लीं नमः अट्टाट्टहासमशिवं शिवदूती चकार ह । तैः शब्दैरसुरास्त्रेसुः शम्भुः कोपं परं ययौ । मः न क्लीं ॐ ।। १० ।। ॐ क्लीं नमः एकैवाहं जगत्यत्र द्वितीया का ममापरा ? पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः । मः न क्लीं ॐ ।। ११ ।। ॐ क्लीं नमः सर्वस्वरुपे सर्वेशे सर्व-शक्ति-समन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तुऽते । मः न क्लीं ॐ ।। १२ ।। ॐ क्लीं नमः देव्युवाच मः न क्लीं ॐ ।। १३ ।। ॐ क्लीं नमः सर्वाबाधा विनिर्मुक्तो धन-धान्य सुतान्वितः । मनुष्यो मत्-प्रसादेन भविष्यति न संशयः । मः न क्लीं ॐ ।। १४ ।। ॐ क्लीं नमः यत् प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन । मत्तस्तत् प्राप्यतां सर्वं परितुष्टा ददामि तत् । मः न क्लीं ॐ ।। १५ ।। ।। जय जय श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये सत्याः सन्तु मनसः कामाः ।। |