Home » Stuti Collection » गणपति स्तुति(Ganpati stuti)
||

गणपति स्तुति(Ganpati stuti)

||
 गणपति स्तुति

सरागिलोकदुर्लभं विरागिलोकपूजितं  सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । 
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः  नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ १॥ 
गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं  करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् । 
सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं  शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥ २॥ 
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये । 
चकासतं चतुर्भुजैः विकासिपद्मपूजितं  प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३॥ 
नराधिपत्वदायकं स्वरादिलोकनायकं  ज्वरादिरोगवारकं निराकृतासुरव्रजम् । 
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः  हृदासदाविभावितं मुदा नमामि विघ्नपम् ॥ ४॥ 
श्रमापनोदनक्षमं समाहितान्तरात्मनां  सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् । 
रमाधवादिपूजितं यमान्तकात्मसम्भवं  शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५॥ 
गणाधिपस्य पञ्चकं नृणामभीष्टदायकं  प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः । 
भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्  चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः ॥ ६॥ ।।

 
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com