Home » Strotra Collection » NavaGraha Stotra नवग्रह स्तोत्र
||

NavaGraha Stotra नवग्रह स्तोत्र

||

II नवग्रह स्तोत्र II



जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I

तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I

नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I

कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II

नीलांजन समाभासं रविपुत्रं यमाग्रजम् I

छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I

रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I

दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I

ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I

ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II

II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com