Home » Strotra Collection » Shri Buddhi Stotra~बुद्धिस्तोत्र
||

Shri Buddhi Stotra~बुद्धिस्तोत्र

||

बुद्धिस्तोत्र

याज्ञवल्क्य उवाच

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।

गुरुशापात्स्मृतिभ्रष्टं विद्दाहीनं च दुःखितम् ॥ १ ॥

ज्ञानं देहि स्मृतिं विद्दां शक्तिं शिष्यप्रबोधिनीम् ।

ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ २ ॥

प्रतिभां सतसभायां च विचार क्षमतां शुभाम् ।

लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ३ ॥

यथांकुरं भस्मनि च करोति देवता पुनः ।

ब्रह्मस्वरुपा परमा ज्योतीरुपा सनातनी ॥ ४ ॥

सर्व विद्दाधिदेवी या तस्यै वाण्यै नमोनमः ।

विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥ ५ ॥

तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः ।

व्याख्यास्वरुपा सा देवी व्याख्याधिष्ठातृरुपिणी ॥ ६ ॥

यया विनाप्रसंख्यावान संख्यां कर्तुं न शक्यते ।

कालसंख्यारुपा या तस्यै देव्यै नमोनमः ॥ ७ ॥

भ्रमसिद्धान्तरुपा या तस्यै देव्यै नमोनमः ।

स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरुपिणी ॥ ८ ॥

प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः ।

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ ९ ॥

बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः ।

तदा जगाम भगवानात्मा श्रीकृष्ण ईश्र्वरः ॥ १० ॥

उवाच स च तां स्तौहि वाणिमिष्टां प्रजापते ।

स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ ११ ॥

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।

यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ १२ ॥

बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः ।

तदा तां च तुष्टाव संत्रस्त कश्यपाज्ञया ॥ १३ ॥

ततश्र्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् ।

व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ १४ ॥

मौनीभूतश्र्च सस्मार तामेव जगदंबिकाम् ।

तदा चकार सिद्धान्तं तद्वरेण मुनीश्र्वरः ॥ १५ ॥

संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीपकम् ।

पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद् भवः ॥ १६ ॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।

तदा त्वतो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ १७ ॥

तदा वेदविभागं च पुराणं च चकार सः ।

यदा महेन्द्रः पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ १८ ॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।

पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥ १९ ॥

दिव्यं वर्षसहस्रं च सा त्वां दध्यौ च पुष्करे ।

तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्रकम् ॥ २० ॥

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्र्वरम् ।

अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २१ ॥

ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् ।

त्वं संस्तुता पूजिता च मुनीद्रैर्मुनिमानवैः ॥ २२ ॥

दैत्येंद्रैश्चसुरैश्र्चापि ब्रह्मविष्णुशिवादिभिः ।

जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥ २३ ॥

यां स्तौतुं किमहं स्तौमि तामेकास्येन मानव: ।

इत्युक्त्वा याज्ञवल्क्यच भक्तिनम्रात्मकंधरः ॥ २४ ॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।

ज्योतीरुपा महामाया तेन दृष्टाप्युवाच तम् ॥ २५ ॥

सुकवींद्रो भवेत्युक्वा वैकुंठं जगाम हे ।

याज्ञवल्क्यकृतं वाणीस्तोत्रमेतस्तु यः पठेत् ॥ २६ ॥

सुकवींद्रो महावाग्मी बृहस्पतिसमो भवेत् ।

महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ।

स पंडितश्च मेघावी सुकवींद्रो भवेद् ध्रुवम् ॥ २७ ॥ ॥

इति श्रीयाज्ञवल्क्य विरचितं बुद्धिस्तोत्रम् संपूर्णम् ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com