Home » Strotra Collection » KleshaharNamamrut Stotram~क्लेशहरनामामृतस्तोत्रम्
||

KleshaharNamamrut Stotram~क्लेशहरनामामृतस्तोत्रम्

||

क्लेशहरनामामृतस्तोत्रम्


श्रीकेशवं क्लेशहरं वरेण्यमानन्दरूपं परमार्थमेव ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ १ ॥


श्रीपद्मनाभं कमलेक्षणं च आधाररुपं जगतां महेशम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ २ ॥


पापापहं व्याधिविनाशरुपमानन्ददं दानवदादैत्यनाशनम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ ३ ॥


यज्ञाङ्गरुपं च रघाङ्गपाणि पुण्याकरं सौख्यमनन्तरुपम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ ४ ॥


विश्र्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ ५ ॥


आदित्यरुपं तमसां विनाशं चन्द्रप्रकाशं मलपङ्कजानाम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ ६ ॥


सखङ्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम् ।
नामामृतं दोषहरं तु राज्ञा आनीतमत्रैव पिबन्तु लोकाः ॥ ७ ॥


नामामृतं दोषहरं सुपुण्यमधीत्य यो माधवविष्णुभक्तः ।
प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च ॥ ८ ॥


॥ इति श्रीपद्मपुराणे भूमिखंडे क्लेशहरनामामृतस्तोत्रम् संपूर्णं ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com