Home » Strotra Collection » SudarshanChakra Stotra~सुदर्शनचक्र स्तोत्र
||

SudarshanChakra Stotra~सुदर्शनचक्र स्तोत्र

||

 सुदर्शनचक्र स्तोत्र

नमः सुदर्शनायैव सहस्रादित्यवर्चसे ।
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ॥
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ।
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ॥
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ।
पालनार्थाय लोकानां दुष्टासुरविनाशिने ॥
उग्राय चैव सौम्याय चण्डाय च नमो नमः ।
नमश्र्चक्षुःस्वरुपाय संसारभयभेदिने ॥
मायापञ्जरभेत्रे च शिवाय च नमोनमः ।
ग्रहातिग्रहरुपाय ग्रहाणां पतये नमः ॥
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः ।
विष्णुरुपाय शान्ताय चायुधानां धराय च ॥
विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः ।
इति स्तोत्रं महत्पुण्यं चक्रस्य तव कीर्तितम् ॥
यः पठेत् परया भक्त्या विष्णुलोकं स गच्छति ।
चक्रपूजाविधिं यश्र्च पठेद्रुद्र जितेन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥
॥ इति श्रीगरुडपुराणे सुदर्शनचक्र स्तोत्रं संपूर्णम् ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com