Home » Strotra Collection » Himalay Krutam Shiv Stotram~हिमालयकृतम शिवस्तोत्रं
||

Himalay Krutam Shiv Stotram~हिमालयकृतम शिवस्तोत्रं

||

हिमालयकृतम शिवस्तोत्रं

 

  हिमालय उवाच


त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः I
त्वं शिवः शिवदोSनन्तः सर्वसंहारकारकः II १ II


त्वमीश्र्वरो गुणातीतो ज्योतीरूपः सनातनः I
प्रकृतिः प्रकृतीशश्र्च प्राकृतः प्रकृतेः परः II २ II


नानारूपविधाता त्वं भक्तानां ध्यानहेतवे I
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च II ३ II


सूर्यस्त्वं सृष्टिजनक आधारः सर्व तेजसाम् I
सोमस्त्वं शस्य पाता च सततं शीतरश्मिना II ४ II


वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः I
इन्द्रस्त्वं देवराजश्र्च कालो मृत्युर्यमस्तथा II ५ II


मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः I
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः II ६ II


विदुषां जनकस्त्वं च विद्वांश्र्च विदुषां गुरुः I
मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः II ७ II


वाक् त्वं वागधिदेवि त्वं तत्कर्ता तद्गुरुः स्वयम् I
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्र्वरः II ८ II


इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् I
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः II ९ II


स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः पठेन्नरः I
मुच्यते सर्वपापेभ्यो भयेभ्यश्र्च भवार्णवे II १० II


अपुत्रो लभते पुत्रं मासमेकं पठेद् यदि I
भार्याहिनो लभेद् भार्यां सुशीलां सुमनोहराम् II ११ II


चिरकालगतं वस्तु लभते सहसा ध्रुवम् I
राज्यभ्रष्टो लभेद् राज्यं शङ्करस्य प्रसादतः II १२ II


कारागारे श्मशाने च शत्रुग्रस्तेSतिसङ्कटे I
गभीरेSतिजलाकीर्णे भग्नपोते विषादने II १३ II


रणमध्ये महाभीते हिन्स्रजन्तुसमन्विते I
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः II १४ II


II इति श्री ब्रह्मवैवर्तपुराणे हिमालयकृतं शिवस्तोत्रं सम्पूर्णं II

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com