Home » Strotra Collection » DavanalSanharana Stotram~दावानल संहरण स्तोत्रम्
||

DavanalSanharana Stotram~दावानल संहरण स्तोत्रम्

||

दावानल संहरण स्तोत्रम्

 

 यथा संरक्षितं ब्रह्मन् सर्वापत्स्वेव नः कुलम् ।
तथा रक्षां कुरु पुनर्दावाग्रेर्मधुसूदन ॥ १ ॥


त्वमिष्टदेवतास्माकं त्वमेव कुलदेवता ।
वन्हिर्वा वरुणो वापि चन्द्रौ वा सूर्य एव वा ॥ २ ॥


यमः कुबेरः पवन ईशानाद्याश्र्च देवताः ।
ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृता: ॥ ३ ॥


मानवाश्र्च तथा दैत्या यक्षराक्षसकिन्नराः ।
ये ये चराचराश्र्चैव सर्वे तव विभूतयः ॥ ४ ॥


स्रष्टा पाता च संहर्ता जगतां च जगत्पते ।
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५ ॥


अभयं देहि गोविन्द वन्हिसंहरण कुरु ।
वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६ ॥


इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ।
दूरीकृतश्र्च दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७ ॥


दूरीभूतेऽत्र दावाग्नौ विपत्तौ प्राणसंकटे ।
स्तोत्रमेतत् पठित्वा च मुच्यते नात्र संशयः ॥ ८ ॥


शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ।
इहलोके हरेर्भक्तिमन्ते दास्यं लभेद् ध्रुवम् ॥ ९ ॥


॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखंडे दावानल संहरण स्तोत्रम् संपूर्णम् ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com